शसीति। शसि परे बह्वुर्थकस्य अल्पार्थकस्य पुंवत्त्वं वक्तव्यमित्यर्थः। "त्रतसा"वित्यादिपरिगणितेष्वनन्तर्भावाद्वचनमिदम्। बह्वीभ्य इति। "बह्वीभ्यो देहीत्यर्थे "बह्वल्पार्थाच्छस्कारकादन्यतरस्या"मिति बह्वीशब्दाच्छस्। पुंवत्त्वे ङीषो निवृत्तिरित भावः। संप्रदानकारकत्वस्फोरणाय "देही"ति शब्दः। अल्पश इति। अल्पाभ्यो देहीत्यर्थः। पुंवत्त्वे टापो निवृत्तिरिति भावः।
त्वतलोरिति। त्वप्रत्यये तल्प्रत्यये च परे गुणोपसर्जनद्रव्यवाचिनः पुंवत्त्वं वक्तव्यमित्यर्थः। कत्र्रीत्वमिति। कत्र्रीशब्दस्य क्रियानिमित्तत्वान्न गुणवचनत्वमिति भावः। "आ कडारा"दिति सूत्रभाष्ये समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसङ्ख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञकं भवतीति स्थितम्। प्रकृते च गुणवचनशब्देन एतदेव विवक्षितम्। "वोतो गुणवचना"दिति सूत्रभाष्यस्थं "सत्त्वे निविशतेऽपैती"त्यादि गुणलक्षणं तु नात्र प्रवर्तते। अत एव "एक तद्धिते चे"ति सूत्रभाष्ये एकस्या भाव एकत्वमित्यत्र एकशब्दस्य गुणवचनत्वाऽभावात् "त्वतलोर्गुणवचनस्ये"त्यप्राप्तं पुंवत्त्वमत्र विधीयत इत्युक्तं सङ्गच्छते। "सखीत्व"मित्यादि तु असाध्वेवेति शब्देन्दुशेखरे विस्तरः। ननु कृतोऽर्थः=कृत्यं यया सा कृतार्थ, तस्या भावः कृतार्थतेत्यत्र कथं पुंवत्त्वम्। कृतार्थशब्दस्य समासत्वेन उक्तगुणवचनत्वाऽभावादित्यत आह--शरद इति। "दृढभक्ति"रित्यत्रानुपदोक्तरीत्या कृतोऽर्थो येन तत्कृतार्थमिति सामान्याभिप्रायं कृतार्थशब्दं प्रथमतो व्युत्पाद्य तस्मादविवक्षितलिङ्गात्तल्प्रत्ययो व्युत्पाद्य इति भावः।
भस्याऽढे इति। ढभिन्ने तद्धिते परे स्त्रियाः पुंवत्त्वे वक्तव्यमित्यर्थः। परिगणितेष्वनन्तर्भावाद्वचनम्। हास्तिकमिति। "तस्य समूहः" इत्यधिकारे "अचित्तहस्तिधेन"रिति ठक्। "ठस्येकः"। पुंवत्त्वे सति नान्तलक्षणङीपो निवृत्तिः। "नस्तद्धिते" इति टिलोप इति भावः। नच पुंवत्त्वाऽभावेऽपि "यस्येति चे"ति ईकारलोपे टिलोपे च "हास्तिक"मिति सिद्धमिति वाच्यं, "यस्ये"ति लोपस्याभीयत्वेनासिद्धतया स्थानिवत्त्वेन च तद्धितपरकत्वाऽभावेन टिलोपाऽनापत्तेः। "ठक्छसोश्चे"ति पुंवत्त्वादेव सिद्धिस्त्वनाशङ्क्या ,-छसः साहचर्येण "भवतष्ठक्छसौ" इति ठक एव तत्र ग्रहणात्। रौहिणेय इति। "वर्णादनुदात्ता"दिति रोहितशब्दान्ङीप्, तकारस्य नकारश्च। रोहिण्या अपत्यमित्यर्थे "स्त्रीभ्यो ढक्"। एयादेशः। "भस्ये"ति पुंवत्त्वे ङीब्नकारयोः निवृत्तिः स्यादिति भावः। गृह्रत इति। व्याख्यानादिति भावः। अग्नायीति। अग्नेः स्त्री अग्नायी। "वृषाकप्यग्नी"ति ङीष्। अग्नेरिकारस्यैकारादेशः, अग्नायी देवताऽस्येत्यर्थेऽग्नेर्ढगिति ढक्, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात्। ततो ढस्य एयादेशः। पुंवत्त्वे सति ङीबैत्वनिवृत्तौ अग्नि-एय इति स्थिते "यस्येति च" इति इकारलोपे आदिवृद्धौ आग्नेय इति रूपम्। पुंवत्त्वनिषेधे तु "आग्नायेय" इति स्यादिति भावः। वस्तुतस्तु अग्नित्वं पुंसि प्रवृत्तिनिमित्तं, स्त्रियां तु अग्निसंबन्ध इति प्रवृत्तिनिमित्तभेदादेवात्र न पुंवत्त्वमिति बोध्यम्। सपत्नीशब्दस्त्रिधेति "व्युत्पादनभेदा"दिति शेषः। शत्रुपर्यायादिति। "रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुह्र्मदः" इति कोशादिति भावः। अयं भाषितपुंस्कः। विवाहनिबन्धनमिति। विवाहजनितसंस्कारविशेषनिमित्तकमित्यर्थः। "पतित्वं सप्तमे पदे" इत्यादिस्मरणादिति भावः। "आश्रित्ये"त्यनन्तरं "प्रवृत्त" इति शेषः। समानः पतिर्यस्या इति बहुव्रीहिः। "नित्यं सप्त्न्यादिषु" इति निपातनात्सभावः, ङीप् नत्वं च। नित्यस्त्रीलिङ्ग इति। अन्यपदार्थस्य स्त्रीत्वे सत्येव विवाहनिबन्धनपतिशब्दस्य सभावादिविधानादिति भावः। "पतिर्नाम घवः" इति कोशादिति भावः। आद्ययोरिति। शत्रुपर्यायं सपत्नशब्दं विवाहनिबन्धनं पतिशब्दं चाश्रित्य प्रवृत्तयोः सपत्नीशब्दयोरित्यर्थः। सापत्न इति। सपत्न्या अपत्यमित्यर्थे "तस्यापत्य"मित्यणं बाधित्वा "स्त्रीभ्यो ढ"गिति ढकि प्राप्ते "शिवादिभ्योऽ"णित्यपि आद्यस्य सप्तनीशब्दस्य भाषितपुंस्कतया पुंवत्त्वे ङीनो निवृत्तौ "सापत्न" इति रूपम्। न तु नकारस्यापि निवृत्तिः, शत्रुपर्यायसपत्नशब्दस्य अव्युत्पन्नप्रातिपदिकतया तत्र नकारस्य स्त्रीत्वनिमित्तकत्वाऽभावात्, द्वितीयस्य तु सपत्नशब्दस्य ङीब्नत्वाभ्यामुत्पन्नस्य शिवाद्यणि कृते भाषितपुंस्कत्वाऽभावान्न पुंवत्त्वं, किंतु ङीपो "यस्येति चे"ति लोपे "सापत्न" इति रूपम्। सति तु पुंवत्त्वे ङीब्नकारयोर्निवृत्तौ "सापत" इति स्यात्। तृतीयात्त्विति। स्वामिपर्यायं पतिशब्दमाश्रित्य प्रवृत्तात्सपत्नीशब्दात्पत्युत्तरपदलक्षणे ण्य एवेत्यन्वयः। सपत्न्या अपत्यमित्यर्थे "तस्यापत्य"मित्यणं बाधित्वा "दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः" इति ण्य एवेत्यन्वयः। ननु सप्तनीशब्दो न पत्युत्तरपद इत्यत आह--लिङ्गविशिष्टपरिभाषयेति। एवशब्दस्य व्यावर्त्त्यमाह--न त्वणिति। ननु ण्यप्रत्ययस्यापि शिवाद्यण् अपवाद इत्यत आह--शिवादौ रूढयोरेवेति। सपत्नशब्दः शत्रौ केवलरूढः। विवाहनिबन्धनं पतिशब्दमाश्रित्य प्रवृत्तस्तु योगरूढः, विवाहकर्तरि पाति रक्षतीति योगस्यापि सत्त्वात्। स्वामिपर्यायं तु पतिशब्दमाश्रित्य प्रवृत्तः केवलयोगिकः। शिवादौ रूढयोरेव ग्रहणं, न तु केवलयौगिकस्य , योगाद्रूढेर्बलवत्त्वादिति भावः। ततः किमित्यत आह--सापत्य इति। स्वामिपर्यायपतिशब्दघटितसप्तनीशब्दस्य भाषितपुंस्कत्वात्पुंवत्त्वे सति ङीब्नत्वयोर्निवृत्तौ "यस्येति चे"तीरकारलोपः। सापत्य इति रूपमित्यर्थः।
ठक्छसोश्चेति। वार्तिकमेतत्। एतयोः परतः पुंवत्त्वं वक्तव्य"मिति शेषः। अभत्वादप्राप्तौ वचनम्। भावत्काः भवदीया इति। "तस्येद"मित्यधिकारे "भवतष्ठक्छसौ" इति भवतीशब्दाट्ठक्छसौ, लिङ्गविशिष्टस्यापि ग्रहणात्। तत्र ठकि इकादेशात्प्राक् ठावस्थायामेव पुंवत्त्वे इकादेशं बाधित्वा "इसुसुक्तान्ता"दिति कादेशे "भावत्क" इति रूपसिद्धौ किं ठग्ग्रहणेनेति वाच्यम्, इकादेशे कृते हि मथधितं पण्यमस्य माथितिक इत्यत्रेव अल्विधितया स्थानिवत्त्वाऽभावेन संनिपातपरिभाषया वा कादेशाऽनापत्तेः। अतष्ठग्ग्रहणम्। भवतीशब्दाच्छसि तु "सिति चे"ति पदत्वेन भत्वस्य बाधात् "भस्याऽढे तद्धिते" इति पुंवत्त्वे कृते इकस्य स्थानित्त्वेन ठक्त्वात् "इसुसुक्तान्ता"दिति कादेशे "भावत्क" इति रूपसिद्धौ किं ठग्ग्रहणेनेति वाच्यम्, इकादेशे कृते हि मथितं पण्यमस्य माथितिक इत्यत्रेव अल्विधितया स्थानिवत्त्वाऽभावेन संनिपातपरिभाषया वा कादेशाऽनापत्तेः। अतष्ठग्ग्रहणम्। भवतीशब्दाच्छसि तु "सिति चे"ति पदत्वेन भत्वस्य बाधात् "भस्याऽढे" इत्यप्राप्ते पुंवत्त्वेऽनेन पुंवत्त्वम्। एतदिति। "ठक्छसोश्चे"ति वार्तिकमित्यर्थः। एक तद्धिते चेति। एकशब्दस्य तद्धिते उत्तरपदे च परे ह्यस्वः स्यादिति तदर्थः। एकस्या भावः एकत्वम्, एकता। एकस्याः शाटी एकशाटी। वृत्तिमात्र इति। कृत्तद्धितादयो वृत्तयः। मात्रशब्दः कार्त्स्न्ये। "स्त्रियाः पुंव"दित्यादिसूत्रगतनिमित्ताऽभावेऽपि भवति। बाष्यकारेष्ठ()एति। भाष्यकारवचनेनेति यावत्। इदंच "दक्षिणात्तराभ्या"मिति सूत्रे भाष्ये स्पष्टम्। गतार्थत्वादिति। निवृत्तप्रयोजनकत्वादिति भावः। एतत्प्रयोजनस्य "सर्वनाम्नः" इति वचनेनैव सिद्धत्वादिति यावत्। "सर्वनाम्नो वृत्तिमात्रे" इत्यस्य तद्दितवृत्तौ उदाहरति--सर्वमय इति। सर्वस्या आगत इत्यर्थः। "तत आगतः" इत्यधिकारे "मयट् चे"ति मयट्। "सर्वनाम्नः" इति पुंवत्त्वम्। चिन्मयमित्यादिवदत्यन्तस्वार्थिको वा मयट्। अथ सनाद्यन्तधातुवृत्तावुदाहरति--सर्वकाम्यतीति। सर्वामात्मन इच्छतीत्यर्थे "काम्यच्चे"ति सर्वाशब्दात्काम्यच्। "सर्वनाम्नः" इति पुंवत्त्वम्। "सनाद्यन्ताः" इति धातुत्वाल्लडादि। मयट्काम्यचोस्त्रतसावित्यादिपरिगणितेष्वनन्तर्भावात्तसिलादिष्विति पुंवत्त्वमत्र न स्यादिति भावः। तद्धितवृत्तौ उदाहरणान्तरमाह--सर्वकभार्य इति। समासवृत्तिरेवैषा। सर्वप्रिय इति। सर्वा प्रिया यस्येति विग्रहः। समासवृत्तिरियम्। प्रियादिपर्युदासो "रूपवतीप्रिय" इत्यादौ उपयुज्यत इति भावः। वस्तुतस्तु एकशब्दे अकच्प्रत्यये "प्रत्ययस्था"दितीत्त्वे एकिका, तस्या भावः--एकिकत्वम्। अत्र पुंवत्त्वे टाप इत्वस्य च निवृत्तौ एककत्वमिति स्यात्। इकारो न श्रूयेत। इत्वनिमित्तस्य टापो निवृत्तत्वात्, पाचिकाशब्दाज्जातीयरि पाचकजातीयेतिवत्। ह्यस्वे सति स्थानिवत्त्वेन टापः सत्त्वात्प्राप्तजीविकवदित्वश्रवममिति फलभेदसत्त्वात् "एक तद्धिते चे"ति गतार्थमित्याहुः। ननु तदितरा तदन्येत्यादावुत्तरपदस्य सर्वनामत्वात्पुंवत्त्वं स्यादित्यत आह--पूर्वस्यैवेदमिति। वृत्तिप्रविष्टाऽनेकभागानां मध्ये किञ्चिदपेक्षया पूर्वस्यैवेदं सर्वनाम्नः पुंवत्त्वविधानमित्यर्थः। भस्त्रैषाजाज्ञाद्वेति लिङ्गादिति। "भस्त्रैषे"ति सूत्रेण एषा द्वा इत्येतयोः साकच्कयोरपि कात्पूर्वस्य इत्त्वविधानमित्यर्थः। भस्त्रैषाजाज्ञाद्वेति लिङ्गादिति। "भस्त्रैषे"ति सूत्रेण एषा द्वा इत्येतयोः साकच्कयोरपि कात्पूर्वस्य इत्त्वविधानम्, अन्यथा निर्विषयं स्यात्। तद्धितवृत्तौ तयोः सर्वनामतया पुंवत्त्वनियमादिति भावः। अकचि तद्धितवृत्तावुद#आहरति--सर्विकेति। सर्वाशब्दात्साकच्काट्टापि "प्रत्ययस्थादि"तीत्त्वे पुंवत्त्वे टाबित्त्वयोर्निवृत्तिः स्यादिति भावः। एकशेषवृत्तावुदाहरति-सर्वा इति।
टाबन्तस्य प्रथमाबहुवचनमिदम्। पुंवत्त्वे टापो निवृत्तिः स्यादिति भावः। कुक्कुट()आदीनामण्डादिष्विति। "पुंवत्त्वं वक्तव्य"मिति शेषः। असमानाधिकरणार्थमिदमिति सूचयन् षष्ठीसमासमुदाहरति--कुक्कुटाण्डमिति। पुंवत्त्वेन जातिलक्षणङीषो निवृत्तिरिति भावः। एवमग्रेऽपि। मृगक्षीरमिति। मृग्याः क्षीरमिति विग्रहः। काकशाव इति। काक्याः शाव इति विग्रहः। "पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः" इत्यमरः।
शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः
। शसीति। "बह्वल्पार्थादि"ति यः शस् स तसिलादिषु ज्ञातव्य इत्यर्थः। त्रतसादिषु परिगणनं कर्तव्यमिति यावत्।त्वतलोर्गुणवचनस्य। त्वतलोर्गुणवचनस्येति। "गुणस्ये"ति वक्तव्ये वचनग्रहणं प्रसिद्धगुणपरिग्रहार्थम्। अतस्तथैवोदाहरति---शुक्लत्वं शूक्लतेति। नन्विह जातिसंज्ञाव्यतिरिक्तं धर्ममात्रं गुण इति यत्प्राचीनैरुक्तं, तत्स्वीकर्तव्यम्। अन्यथा "निरीक्ष्य मेने शरदः कृतार्थता", "सा मुमोच रतिदुःखशीलता"मित्यादिषु पुंवद्भावाऽप्रवृत्त्या दीर्घश्रवणं स्यादित्यताअह--सामान्ये नपुंसकमिति। एवं च "नेष्टं पुरो द्वारवतीत्वमासीत्ित्यादिप्रयोगो निर्बाध इति भावः।
भस्याऽढे तद्धिते। हास्तिकमिति। "अचितथस्तिधेनो"रिति ठक्। न चात्र यस्येति लोपेन निर्वाहः, तस्य "असिद्धवदत्रे"त्यसिद्धत्वात्, "अचः परस्मि"न्निति स्थानिवद्भावाच्च "नस्तद्धिते"इति टिलोपाऽनापत्तेः। न च "ठक्छसोश्चे"त्यनेनैववात्र पंवद्भावसिद्धिः शङ्क्या, छसा साहचर्यात् "भवतष्ठक्छसौ"इत्यस्यैव ठकस्तत्र ग्रहणात्। नापि "जातेश्चे"ति पुंवद्भावनिषेधः शङ्क्यः, अस्मादेव भाष्योदाहरणात् "सौत्रस्यैव निषेधो, न त्वौपसङ्ख्यानिकस्ये"ति ज्ञापनात्। रौहिणेय इति। रोहितशब्दात् "वर्णांदनुदात्तादि"ति ङीन्बकारौ। सति तु पुंवद्भावे तयोर्निवृत्तौ "रौहितेय"इति स्यादिति भावः। गृह्रत इति। व्याख्यानादितिशेषः। अग्नायीति। अग्नीशब्दात् "वृषाकप्यग्नी"ति स्त्रियां ङीबैकारादेशौ। आग्नेय इति। पुंवद्भावाऽभावे तु "आग्नायेय"इति स्यादिति भावः। शत्रुपर्यायादिति। अत्र च "व्यन् सपत्ने"इति निर्देशो लिङ्गम्। "रिपौ वैरिसपत्नाऽरिद्विषव्द्देषणदुह्र्मदः"इत्यमरः। विवाहनिबन्धनमिति। तज्जन्यसंस्कारविशेषविशिष्टे रूढमित्यर्थः। सापत्न इति। अभाषितपुंस्कत्वाव्द्दितीयस्य पुंवद्भावौ न भवति। सति च पुंवद्भावे नकारादेशाऽभावात्सापत इति स्यात्। आद्यस्य तु पुंवद्भावेऽपि "सारत्न"इत्येव भवतीति भावः। रूढयोरेवेति। आद्यः शब्दो रूढः, द्वितीयस्तु योगरूढः, तेन "समानः पतिर्यस्याः"इति विग्रहो न विरुध्यत इति दिक्। ठक्छसोश्च। अभत्वार्थ आरम्भः।भावत्का इति। "भवतष्ठक्()छसौ"। ठावस्थायामेव पुंवद्भावे कृते "ठस्येकः" इति इकादेशं बाधित्वा तान्त लक्षणः कादेशः। नन्विकादेशे भत्वात् "भस्याऽढे"इति पुंवद्भावे सति कादेशप्रवृत्त्या रूपसिद्धौकिमत्र ठग्ग्रहणेन()। मैवम्। मथितं पण्यमस्य माथितिक इत्यत्रेवाऽल्विधित्वेन स्थानिवद्भाववाऽयोदात्सन्निपातपरिभाषया वा कादेशप्रवृत्तेर्दुर्लभत्वात्। अतः "ठक्छसो"रिति ठग्ग्रहणं कर्तव्यमेव। भवदीया इति। छसः सित्करणात् "सिति चे"ति पदसंज्ञा। तेनाऽत्र जश्त्वं भवति। एवं च पदसंज्ञया भसंज्ञाया बाधात् "भत्याऽढे" इत्यस्याऽप्रवृत्त्या वार्तिके छस्()ग्रहणं कृतम्। भाष्यकारेष्ट()एति। अनेन सूत्रवार्तिकयोरुक्तिसंभवो ध्वनितः। उत्तरं दृष्ट्वा पूर्वस्याऽप्रवृत्तत्वात्। निष्कर्षे तु व्यर्थमेवेत्याह---गतार्थत्वादिति। इष्टेरुदाहरणान्यह---सर्वमय इत्यादिना। "तत आगतः"इत्यर्थे "मयट्चे"इति मयट्। तसिलादिषु मयडादेरपरिगणितत्वात्तेनेदं न सिध्यतीति भावः। सर्वकभार्य इति। न च "स्त्रियाः पुंव"दिति सूत्रेण गतार्थता, "न कोपधायाः"इति निषेधात्। न चाऽस्यापि तेन निषेधः शङ्क्यः, "स्त्रियाः पुंवदि"त्यादिप्रकरणोक्तस्यैव तेन निषेधात्। अस्या इष्टेस्तु तस्मिन्()प्रकरणेऽसमाविष्टत्वात्। न च वृत्त्यन्तर्गतस्य सर्वनामत्वाऽभावात्पुंवद्भावो न भवेदिति वाच्यं, वचनारम्भसामथ्र्यान्मात्रग्रहणाद्वा क्वचित्सर्वनामत्वेन दृष्टानां संप्रति संज्ञाऽभावेऽपि पुंवद्भावाभ्युपगमात्। अतएवोत्तरपूर्वायै इत्यत्र संज्ञाऽभावेऽपि पुंवद्भावः। सर्वां नाम काचित्तस्याः पुत्रः सर्वापुत्र इत्यत्र तु नाऽतिप्रसङ्गः,संज्ञोपसर्जनयोः सर्वादिगणबहुर्भूतत्वेन वृत्तेः पूर्वमप्यसर्वनामत्वात्। सर्वप्रिय इति। "स्त्रियाः पुंव"दित्यत्र प्रियादिपर्युदासो "रूपवतीप्रिय" इत्यादाबुपयुज्यत इति भावः। तदितरा तदन्येत्यादावुत्तरपदेऽतिप्रसङ्गमाशङ्क्याह---पूर्वस्यैवेति। वृत्तिघटकाऽनेकभागमध्ये किंचिदपेक्षया पूर्वस्येत्यर्थः। लिङ्गादिति। अन्यथा एषा द्वा एतयोः कात्पूर्वस्य आपि विधीयतमानमित्वं निर्विषयं स्यादिति भावः। "दक्षिणपूर्वा दि"गिति भाष्योदाहरणमपीह लिङ्गमिति बोध्यम्। यत्तु प्राचा "सर्वनाम्नः समासे पूर्वं पुंव"दित्युक्तम्, यच्च व्याचख्युः--"वार्तिकार्थमनुवदति---सर्वनाम्न इत्यादिना"इति। तत्प्रामादिकम्। "वृत्तामात्रे"इति पाठस्यैव भाष्यारूढत्वात्। "सर्वमयः" "सर्वकाम्यती"त्युक्तोदाहरणाऽसिद्धिप्रसङ्गाच्च। "वार्तिकार्थ"मित्याद्यपि प्रामादिकमेव। वार्तिकग्रन्थे एतदभावात्। न च "सर्वनाम्नो वृत्तिमात्रे"इत्येतद्धार्तिकमेव, न तु भाष्यकारेष्टिरिति शङ्क्यं ---"ठक्()छसो "रिति वार्तिकस्य निरालम्बनत्वापत्तेः। भाष्यकारेष्टित्वे तु वार्तिकस्योक्तिसंभव उक्त एव प्राक्।